हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Mahakala Shani Mrityunjaya Stotram – श्री महाकाल शनि मृत्युञ्जय स्तोत्रम्


नीलाद्रिशोभाञ्चितदिव्यमूर्तिः
खड्गी त्रिदण्डी शरचापहस्तः ।
शम्भुर्महाकालशनिः पुरारि-
-र्जयत्यशेषासुरनाशकारी ॥ १ ॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छति स्म जगद्धितम् ॥ २ ॥

पार्वत्युवाच ।
भगवन् देवदेवेश भक्तानुग्रहकारक ।
अल्पमृत्युविनाशाय यत्त्वया पूर्वसूचितम् ॥ ३ ॥

तदेव त्वं महाबाहो लोकानां हितकारकम् ।
तव मूर्तिप्रभेदस्य महाकालस्य साम्प्रतम् ॥ ४ ॥

शनेर्मृत्युञ्जयस्तोत्रं ब्रूहि मे नेत्रजन्मनः ।
अकालमृत्युहरणमपमृत्युनिवारणम् ॥ ५ ॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत् स्तवं शुभम् ।
प्रतिनाम चतुर्थ्यन्तं नमोन्तं मनुना युतम् ॥ ६ ॥

श्रीशङ्कर उवाच ।
नित्ये प्रियतमे गौरि सर्वलोकहिते रते ।
गुह्याद्गुह्यतमं दिव्यं सर्वलोकोपकारकम् ॥ ७ ॥

शनिमृत्युञ्जयस्तोत्रं प्रवक्ष्यामि तवाधुना ।
सर्वमङ्गलमाङ्गल्यं सर्वशत्रुविमर्दनम् ॥ ८ ॥

सर्वरोगप्रशमनं सर्वापद्विनिवारणम् ।
शरीरारोग्यकरणमायुर्वृद्धिकरं नृणाम् ॥ ९ ॥

यदि भक्तासि मे गौरि गोपनीयं प्रयत्नतः ।
गोपितं सर्वतन्त्रेषु तच्छृणुष्व महेश्वरि ॥ १० ॥

अस्य श्रीमहाकालशनिमृत्युञ्जय स्तोत्रमन्त्रस्य पिप्पलाद ऋषिरनुष्टुप् छन्दो महाकालशनिर्देवता शं बीजमायसी शक्तिः कालपुरुषायेति कीलकं ममाकालापमृत्युनिवारणार्थे पाठे विनियोगः ॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्ध्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥ ११ ॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदि न्यसेन्महाकालं गुह्ये कृशतनुं न्यसेत् ॥ १२ ॥

जान्वोस्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधिं कृत्वा पश्चात् कालात्मनः शनेः ॥ १३ ॥

न्यासं ध्यानम् प्रवक्ष्यामि तनौ ध्यात्वा पठेन्नरः ।
कल्पादियुगभेदांश्च कराङ्गन्यासरूपिणः ॥ १४ ॥

कालात्मनो न्यसेद्गात्रे मृत्युञ्जय नमोऽस्तु ते ।
मन्वन्तराणि सर्वाणि महाकालस्वरूपिणः ॥ १५ ॥

भावयेत्प्रति प्रत्यङ्गे महाकालाय ते नमः ।
भावयेत् प्रभवाद्यब्दान् शीर्षे कालजिते नमः ॥ १६ ॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवोः ।
सौरये च नमस्तेस्तु गण्डयोर्विन्यसेदृतून् ॥ १७ ॥

श्रावणं भावयेदक्ष्णोर्नमः कृष्णनिभाय च ।
महोग्राथ नमो भाद्रं तथा श्रवणयोर्न्यसेत् ॥ १८ ॥

नमो वै दुर्निरीक्ष्याय चाश्विनं विन्यसेन्मुखे ।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥ १९ ॥

मार्गशीर्षं न्यसेद्बाह्वोर्महारौद्राय ते नमः ।
ऊर्ध्वलोकनिवासाय पौषं तु हृदये न्यसेत् ॥ २० ॥

नमः कालप्रबोधाय माघं वै चोदरे न्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेद्वै फाल्गुनं तथा ॥ २१ ॥

ऊर्वोर्न्यसेच्चैत्रमासं नमः शिवोद्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नमः संवर्तकाय च ॥ २२ ॥

जङ्घयोर्भावयेज्ज्येष्ठं भैरवाय नमस्तथा ।
आषाढं पादयोश्चैव शनये च नमस्तथा ॥ २३ ॥

कृष्णपक्षं च क्रूराय नम आपादमस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥ २४ ॥

न्यसेन्मूलं पादयोश्च ग्रहाय शनये नमः ।
नमः सर्वजिते चैव तोयं सर्वाङ्गुलौ न्यसेत् ॥ २५ ॥

न्यसेद्गुल्फद्वये विश्वं नमः शुष्कतराय च ।
विष्णुभं भावयेज्जङ्घोभये शिष्टतमाय ते ॥ २६ ॥

जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नमः ।
ऊरुद्वये वारुणर्क्षं न्यसेत्कालभृते नमः ॥ २७ ॥

पूर्वभाद्रं न्यसेन्मेढ्रे जटाजूटधराय च ।
पृष्ठ उत्तरभाद्रं च करालाय नमस्तथा ॥ २८ ॥

रेवतीं च न्यसेन्नाभौ नमो मन्दचराय च ।
गर्भदेशे न्यसेद्दस्रं नमः श्यामतराय च ॥ २९ ॥

नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्यसेत्कृत्तिकां हृदये नमस्तैलप्रियाय च ॥ ३० ॥

रोहिणीं भावयेद्धस्ते नमस्ते खड्गधारिणे ।
मृगं न्यसेद्वामहस्ते त्रिदण्डोल्लसिताय च ॥ ३१ ॥

दक्षोर्ध्वे भावयेद्रौद्रं नमो वै बाणधारिणे ।
पुनर्वसुमूर्ध्ववामे नमो वै चापधारिणे ॥ ३२ ॥

तिष्यं न्यसेद्दक्षबाहौ नमस्ते हरमन्यवे ।
सार्पं न्यसेद्वामबाहौ चोग्रचापाय ते नमः ॥ ३३ ॥

मघां विभावयेत्कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्भगर्क्षं च नमः क्रूरग्रहाय च ॥ ३४ ॥

भावयेद्दक्षनासायामर्यमाणश्च योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नमः ॥ ३५ ॥

त्वाष्ट्रं न्यसेद्दक्षकर्णे कृसरान्नप्रियाय ते ।
स्वातीं न्यसेद्वामकर्णे नमो ब्रह्ममयाय ते ॥ ३६ ॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
मैत्रं न्यसेद्वामनेत्रे नमोऽन्धलोचनाय ते ॥ ३७ ॥

शाक्रं न्यसेच्च शिरसि नमः संवर्तकाय च ।
विष्कम्भं भावयेच्छीर्षसन्धौ कालाय ते नमः ॥ ३८ ॥

प्रीतियोगं भ्रुवोः सन्धौ महामन्द नमोऽस्तु ते ।
नेत्रयोः सन्धावायुष्मद्योगं भीष्माय ते नमः ॥ ३९ ॥

सौभाग्यं भावयेन्नासासन्धौ फलाशनाय च ।
शोभनं भावयेत्कर्णे सन्धौ पुण्यात्मने नमः ॥ ४० ॥

नमः कृष्णायातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मांसदेहाय सुकर्माणं शिरोधरे ॥ ४१ ॥

धृतिं न्यसेद्दक्षबाहौ पृष्ठे छायासुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नमः ॥ ४२ ॥

तत्कूर्परे न्यसेद्गण्डे नित्यानन्दाय ते नमः ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥ ४३ ॥

ध्रुवं तदङ्गुलीमूलसन्धौ कृष्णाय ते नमः ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥ ४४ ॥

हर्षणं तन्मूलसन्धौ भुतसन्तापिने नमः ।
तत्कूर्परे न्यसेद्वज्रं सानन्दाय नमोऽस्तु ते ॥ ४५ ॥

सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नमः ।
व्यतीपातं कराग्रेषु न्यसेत्कालकृते नमः ॥ ४६ ॥

वरीयांसं दक्षपार्श्वसन्धौ कालात्मने नमः ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोऽस्तु ते ॥ ४७ ॥

न्यसेद्दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत् सिद्धिं महादेहाय ते नमः ॥ ४८ ॥

साध्यं न्यसेच्च तद्गुल्फसन्धौ घोराय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ शुभं रौद्राय ते नमः ॥ ४९ ॥

न्यसेद्वामोरुसन्धौ च शुक्लं कालविदे नमः ।
ब्रह्मयोगं च तज्जानौ न्यसेत्सद्योगिने नमः ॥ ५० ॥

ऐन्द्रं तद्गुल्फसन्धौ च योगाधीशाय ते नमः ।
न्यसेत्तदङ्गुलीसन्धौ नमो भव्याय वैधृतिम् ॥ ५१ ॥

चर्मणि बवकरणं भावयेद्यज्वने नमः ।
बालवं भावयेद्रक्ते संहारक नमोऽस्तु ते ॥ ५२ ॥

कौलवं भावयेदस्थ्नि नमस्ते सर्वभक्षिणे ।
तैतिलं भावयेन्मांसे आममांसप्रियाय ते ॥ ५३ ॥

गरं न्यसेद्वपायां च सर्वग्रासाय ते नमः ।
न्यसेद्वणिजं मज्जायां सर्वान्तक नमोऽस्तु ते ॥ ५४ ॥

वीर्ये विभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्रपितृवसुवारीण्येतांश्च पञ्च च ॥ ५५ ॥

मुहूर्तांश्च दक्षपादनखेषु भावयेन्नमः ।
खगेशाय च खस्थाय खेचराय स्वरुपिणे ॥ ५६ ॥

पुरुहूतशतमखे विश्ववेधोविधूंस्तथा ।
मुहूर्तांश्च वामपादनखेषु भावयेन्नमः ॥ ५७ ॥

सत्यव्रताय सत्याय नित्यसत्याय ते नमः ।
सिद्धेश्वर नमस्तुभ्यं योगेश्वर नमोऽस्तु ते ॥ ५८ ॥

वह्निनक्तञ्चरांश्चैव वरुणार्यमयोनिकान् ।
मुहूर्तांश्च दक्षहस्तनखेषु भावयेन्नमः ॥ ५९ ॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥ ६० ॥

वामहस्तनखेष्वन्त्यवर्णेशाय नमोऽस्तु ते ।
गिरिशाहिर्बुध्न्यपूषाजपाद्दस्रांश्च भावयेत् ॥ ६१ ॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशीनां फलदात्रे नमोऽस्तु ते ॥ ६२ ॥

यमाग्निचन्द्रादितिकविधातॄंश्च विभावयेत् ।
ऊर्ध्वहस्तदक्षनखेष्वन्त्यकालाय ते नमः ॥ ६३ ॥

तुलोच्चस्थाय सौम्याय नक्रकुम्भगृहाय च ।
समीरत्वष्टृजीवांश्च विष्णुतिग्मद्युतीन्न्यसेत् ॥ ६४ ॥

ऊर्ध्ववामहस्तनखेष्वन्यग्रहनिवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहुसखाय च ॥ ६५ ॥

रविवारं ललाटे च न्यसेद्भीमदृशे नमः ।
सोमवारं न्यसेदास्ये नमोऽमृतप्रियाय च ॥ ६६ ॥

भौमवारं न्यसेत् स्वान्ते नमो ब्रह्मस्वरूपिणे ।
मेढ्रे न्यसेत् सौम्यवारं नमो जीवस्वरूपिणे ॥ ६७ ॥

वृषणे गुरुवारं च नमो मन्त्रस्वरूपिणे ।
भृगुवारं मलद्वारे नमः प्रलयकारिणे ॥ ६८ ॥

पादयोः शनिवारं च निर्मांसाय नमोऽस्तु ते ।
घटिकां न्यसेत्केशेषु नमस्ते सूक्ष्मरूपिणे ॥ ६९ ॥

कालरूपिन्नमस्तेऽस्तु सर्वपापप्रणाशक ॥

त्रिपुरस्य वधार्थाय शम्भुजाताय ते नमः ॥ ७० ॥

नमः कालशरीराय कालनुन्नाय ते नमः ।
कालहेतो नमस्तुभ्यं कालनन्दाय वै नमः ॥ ७१ ॥

अखण्डदण्डमानाय त्वनाद्यन्ताय वै नमः ।
कालदेवाय कालाय कालकालाय ते नमः ॥ ७२ ॥

निमेषादिमहाकल्पकालरुपं च भैरवम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७३ ॥

दातारं सर्वभव्यानां भक्तानामभयङ्करम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७४ ॥

कर्तारं सर्वदुःखानां दुष्टानां भयवर्धनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७५ ॥

हर्तारं ग्रहजातानां फलानामघकारिणाम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७६ ॥

सर्वेषामेव भूतानां सुखदं शान्तमव्ययम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७७ ॥

कारणं सुखदुःखानां भावाभावस्वरूपिणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७८ ॥

अकालमृत्युहरणमपमृत्यु निवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ७९ ॥

कालरूपेण संसारं भक्षयन्तं महाग्रहम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८० ॥

दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीर्घलोचनम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८१ ॥

ग्रहाणां ग्रहभूतं च सर्वग्रहनिवारणम् ।
मृत्युञ्जयं महाकालं नमस्यामि शनैश्चरम् ॥ ८२ ॥

कालस्य वशगाः सर्वे न कालः कस्यचिद्वशः ।
तस्मात्त्वां कालपुरुषं प्रणतोऽस्मि शनैश्चरम् ॥ ८३ ॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरूपः स्वयं शम्भुः कालात्मा ग्रहदेवता ॥ ८४ ॥

चण्डीशो रुद्रडाकिन्याक्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्यां समारूढो रसाधिपः ॥ ८५ ॥

चण्डीशः शुकसम्युक्तो जिह्वया ललितः पुनः ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युता युतः ॥ ८६ ॥

नमोऽन्तो मनुरित्येष शनितुष्टिकरः शिवे ।
आद्यन्तेऽष्टोत्तरशतं मनुमेनं जपेन्नरः ॥ ८७ ॥

यः पठेच्छृणुयाद्वापि ध्यात्वा सम्पूज्य भक्तितः ।
तस्य मृत्योर्भयं नैव शतवर्षावधि प्रिये ॥ ८८ ॥

ज्वराः सर्वे विनश्यन्ति दद्रुविस्फोटकच्छुकाः ।
दिवा सौरिं स्मरेत् रात्रौ महाकालं यजन् पठेत् ॥ ८९ ॥

जन्मर्क्षे च यदा सौरिर्जपेदेतत् सहस्रकम् ।
वेधगे वामवेधे वा जपेदर्धसहस्रकम् ॥ ९० ॥

द्वितीये द्वादशे मन्दे तनौ वा चाष्टमेऽपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दिनावधि ॥ ९१ ॥

चतुर्थे दशमे वाऽपि सप्तमे नवपञ्चमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥ ९२ ॥

गुरुलाघवज्ञानेन पठेदावृत्तिसङ्ख्यया ।
शतमेकं त्रयं वाथ शतयुग्मं कदाचन ॥ ९३ ॥

आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथवा जलसन्निधौ ॥ ९४ ॥

पुण्यक्षेत्रेऽश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥ ९५ ॥

श्रोतव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युञ्जयाभिधम् ॥ ९६ ॥

कालक्रमेण कथितं न्यासक्रमसमन्वितम् ।
प्रातःकाले शुचिर्भूत्वा पूजायां च निशामुखे ॥ ९७ ॥

पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेऽथवा ॥ ९८ ॥

नाऽकाले मरणं तेषां नाऽपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविनः ॥ ९९ ॥

नाऽतः परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन्मयोदितम् ॥ १०० ॥

तस्मात्सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि नैवाभक्तस्य कस्यचित् ॥ १०१ ॥

इति मार्तण्डभैरवतन्त्रे महाकाल शनि मृत्युञ्जय स्तोत्रम् ॥


Navagraha Stotras – नवग्रह स्तोत्राणि

Navagraha Stotras – नवग्रह स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.